श्री पञ्चमुखहनुमत्कवच

।। हरि: ॐ ।।

॥ अथ श्रीपञ्चमुखहनुमत्कवचम् ॥

श्रीगणेशाय नम: ।

ॐ अस्य श्रीपञ्चमुखहनुमत्कवचमन्त्रस्य ब्रह्मा ऋषि: ।

गायत्री छंद: । पञ्चमुख-विराट् हनुमान् देवता ।

ह्रीम् बीजम् । श्रीम् शक्ति: । क्रौम् कीलकम् ।

क्रूम् कवचम् । क्रैम् अस्त्राय फट् । इति दिग्बन्ध: ।

॥ श्री गरुड उवाच ॥

अथ ध्यानं प्रवक्ष्यामि शृणु सर्वांगसुंदर ।

यत्कृतं देवदेवेन ध्यानं हनुमत: प्रियम् ॥१॥

पञ्चवक्त्रं महाभीमं त्रिपञ्चनयनैर्युतम् ।

बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम् ॥​२​॥

पूर्वं तु वानरं वक्त्रं कोटिसूर्यसमप्रभम् ।

दंष्ट्राकरालवदनं भ्रुकुटिकुटिलेक्षणम् ॥३॥

अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम् ।

अत्युग्रतेजोवपुषं भीषणं भयनाशनम् ॥४॥

पश्चिमं गारुडं वक्त्रं वक्रतुण्डं महाबलम् ।

सर्वनागप्रशमनं विषभूतादिकृन्तनम् ॥५॥

उत्तरं सौकरं वक्त्रं कृष्णं दीप्तं नभोपमम् ।

पातालसिंहवेतालज्वररोगादिकृन्तनम् ॥६॥

ऊर्ध्वं हयाननं घोरं दानवान्तकरं परम् ।

येन वक्त्रेण विप्रेन्द्र तारकाख्यं महासुरम् ॥७॥

जघान शरणं तत्स्यात्सर्वशत्रुहरं परम् ।

ध्यात्वा पञ्चमुखं रुद्रं हनुमन्तं दयानिधिम् ॥८॥

खड़्गं त्रिशूलं खट्वाङ्गं पाशमङ्कुशपर्वतम् ।

मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुम् ॥९॥

भिन्दिपालं ज्ञानमुद्रां दशभिर्मुनिपुङ्गवम् ।

एतान्यायुधजालानि धारयन्तं भजाम्यहम् ॥१०॥

प्रेतासनोपविष्टं तं सर्वाभरणभूषितम् ।

दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥११॥

सर्वाश्‍चर्यमयं देवं हनुमद्विश्‍वतो मुखम् ॥

पञ्चास्यमच्युतमनेकविचित्रवर्णवक्त्रं

शशाङ्कशिखरं कपिराजवर्यम् ।

पीताम्बरादिमुकुटैरुपशोभिताङ्गं

पिङ्गाक्षमाद्यमनिशं मनसा स्मरामि ॥१२॥

मर्कटेशं महोत्साहं सर्वशत्रुहरं परम् ।

शत्रुं संहर मां रक्ष श्रीमन्नापदमुद्धर ॥

ॐ हरिमर्कट मर्कट मन्त्रमिदं परिलिख्यति लिख्यति वामतले ।

यदि नश्यति नश्यति शत्रुकुलं यदि मुञ्चति मुञ्चति वामलता ॥

ॐ हरिमर्कटाय स्वाहा ।

ॐ नमो भगवते पञ्चवदनाय पूर्वकपिमुखाय सकलशत्रुसंहारकाय स्वाहा ।

ॐ नमो भगवते पञ्चवदनाय दक्षिणमुखाय करालवदनाय नरसिंहाय सकलभूतप्रमथनाय स्वाहा ।

ॐ नमो भगवते पञ्चवदनाय पश्चिममुखाय गरुडाननाय सकलविषहराय स्वाहा ।

ॐ नमो भगवते पञ्चवदनाय उत्तरमुखाय आदिवराहाय सकलसंपत्कराय स्वाहा ।

ॐ नमो भगवते पञ्चवदनाय ऊर्ध्वमुखाय हयग्रीवाय सकलजनवशकराय स्वाहा ।

ॐ श्रीपञ्चमुखहनुमन्ताय आञ्जनेयाय नमो नम: ॥

।। हरि ॐ ।।