श्री पञ्चमुखहनुमत्कवच
।। हरि: ॐ ।। ॥ अथ श्रीपञ्चमुखहनुमत्कवचम् ॥ श्रीगणेशाय नम: । ॐ अस्य श्रीपञ्चमुखहनुमत्कवचमन्त्रस्य ब्रह्मा ऋषि: । गायत्री छंद: । पञ्चमुख-विराट् हनुमान् देवता । ह्रीम् बीजम् । श्रीम् शक्ति: । क्रौम् कीलकम् । क्रूम् कवचम् । क्रैम् अस्त्राय फट् । इति दिग्बन्ध: । ॥ श्री गरुड उवाच ॥ अथ ध्यानं प्रवक्ष्यामि शृणु सर्वांगसुंदर । यत्कृतं देवदेवेन ध्यानं हनुमत: प्रियम् ॥१॥ पञ्चवक्त्रं महाभीमं त्रिपञ्चनयनैर्युतम् । बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम् ॥२॥ पूर्वं तु वानरं